Monday, October 26, 2020

श्रीविष्णुसहस्रनामस्तोत्रम् * Shri Vishnu Sahasra Nama Stotram * (महाभारतान्तर्गतम्) * गरुडपुराणान्तर्गतम्

 श्रीविष्णुसहस्रनामस्तोत्रम् * Shri Vishnu Sahasra Nama Stotram * (महाभारतान्तर्गतम्)
 

Sri Vishnu Sahasra Nama is a collection of one thousand names of Lord Maha Vishnu. It is recited both as a Stotra as well as a Namavali. It appears in the Santi Parva of Mahabharata as a conversation between Grandsire Bhishma and Yudhistira. The context of the conversation is as follows: King Yudhistira approached grandsire Bhishma who was spending the final days of his stay on earth, with an intention to learn from him the secrets of Dharma for Bhishma was one of the 8 individuals considered to be the true knowers of Dharma.

After questioning and learning a number of other things, Yudhistira questions Bhishma thus: “What Dharma is the most superior among all Dharmas, in your opinion? By adoring whom does a living being get liberated from the samsara of birth and death?”

In reply to this Bhishma says, “Constantly worshipping and doing devotional service to Lord MahaVishnu is the greatest Dharma in my opinion”. He then explains the omnipotence of the Lord and recites His one thousand names.


Vishnu Sahasranamam | श्री विष्णु सहस्रनाम संपूर्ण |

श्रीविष्णुसहस्रनामस्तोत्रम्

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

ॐ अथ सकलसौभाग्यदायक श्रीविष्णुसहस्रनामस्तोत्रम् ।
 

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥
 

यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।

विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥

 

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।

पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३॥

 

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।

नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥

 

अविकाराय शुद्धाय नित्याय परमात्मने ।

सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥

 

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।

विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥

 

ॐ नमो विष्णवे प्रभविष्णवे ।

     श्रीवैशम्पायन उवाच ---

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।

युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७॥

 

     युधिष्ठिर उवाच ---

किमेकं दैवतं लोके किं वाप्येकं परायणम् ।

स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८॥

 

को धर्मः सर्वधर्माणां भवतः परमो मतः ।

किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ९॥

 

     भीष्म उवाच ---

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।

स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १०॥

 

तमेव चार्चयन्नित्यं  भक्त्या पुरुषमव्ययम् ।

ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११॥

 

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।

लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ १२॥

 

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।

लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ १३॥

 

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।

यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४॥

 

परमं यो महत्तेजः परमं यो महत्तपः ।

परमं यो महद्ब्रह्म परमं यः परायणम् ॥ १५॥

 

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।

दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥ १६॥

 

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।

यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १७॥

 

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।

विष्णोर्नामसहस्रं मे श‍ृणु पापभयापहम् ॥ १८॥

 

यानि नामानि गौणानि विख्यातानि महात्मनः ।

ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९॥

 

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥

 

छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २०॥

 

अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः ।

त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ २१॥

 

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥

 

अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं ॥ २२ ॥

 

           पूर्वन्यासः ।

     श्रीवेदव्यास उवाच ---

ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ।

श्री वेदव्यासो भगवान् ऋषिः ।

अनुष्टुप् छन्दः ।

श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।

अमृतांशूद्भवो भानुरिति बीजम् ।

देवकीनन्दनः स्रष्टेति शक्तिः ।

उद्भवः क्षोभणो देव इति परमो मन्त्रः ।

शङ्खभृन्नन्दकी चक्रीति कीलकम् ।

शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।

रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।

त्रिसामा सामगः सामेति कवचम् ।

आनन्दं परब्रह्मेति योनिः ।

ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥

 

श्रीविश्वरूप इति ध्यानम् ।

श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥

 

           अथ न्यासः ।

ॐ शिरसि वेदव्यासऋषये नमः ।

मुखे अनुष्टुप्छन्दसे नमः ।

हृदि श्रीकृष्णपरमात्मदेवतायै नमः ।

गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः ।

पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः ।

सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः ।

करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥

 

इति ऋषयादिन्यासः ॥

 

           अथ करन्यासः ।

ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः ।

अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः ।

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः ।

सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः ।

निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः ।

रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः ।

इति करन्यासः ।

           अथ षडङ्गन्यासः ।

ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः ।

अमृतांशूद्भवो भानुरिति शिरसे स्वाहा ।

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् ।

सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् ।

निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् ।

रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् ।

इति षडङ्गन्यासः ॥

 

श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं

करिष्ये इति सङ्कल्पः ।

           अथ ध्यानम् ।

क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां

मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।

शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः

आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ १॥

 

भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे

कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।

अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः

चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २॥

 

ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं  var  योगिहृद्ध्यानगम्यं

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३॥

 

मेघश्यामं पीतकौशेयवासं

श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।

पुण्योपेतं पुण्डरीकायताक्षं

विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ४॥

 

नमः समस्तभूतानामादिभूताय भूभृते ।

अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५॥

 

सशङ्खचक्रं सकिरीटकुण्डलं

सपीतवस्त्रं सरसीरुहेक्षणम् ।

सहारवक्षःस्थलकौस्तुभश्रियं  var  स्थलशोभिकौस्तुभं

नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ६॥

 

छायायां पारिजातस्य हेमसिंहासनोपरि

आसीनमम्बुदश्याममायताक्षमलंकृतम् ।

चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं

रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७॥

 

 

      स्तोत्रम् ।

           हरिः ॐ ।

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।

भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥

 

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।

अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥

 

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।

नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥

 

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।

सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥

 

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।

अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥

 

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।

विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥

 

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।

प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७॥

 

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥

 

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९॥

 

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।

अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १०॥

 

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।

वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११॥

 

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।

अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२॥

 

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।

अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३॥

 

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४॥

 

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।

चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५॥

 

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥

 

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।

अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥

 

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।

अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥

 

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।

अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥

 

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।

अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥

 

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।

हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥

 

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।

अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥

 

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।

निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३॥

 

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।

सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥

 

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।

अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५॥

 

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।

सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६॥

 

असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।

सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७॥

 

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।

वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८॥

 

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।

नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९॥

 

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।

ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३०॥

 

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।

औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१॥

 

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।

कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥

 

युगादिकृद्युगावर्तो नैकमायो महाशनः ।

अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३॥

 

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।

क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४॥

 

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।

अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५॥

 

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।

वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६॥

 

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।

अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥

 

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।

महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥

 

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।

सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९॥

 

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।

महीधरो महाभागो वेगवानमिताशनः ॥ ४०॥

 

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।

करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१॥

 

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।

परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥

 

रामो विरामो विरजो मार्गो नेयो नयोऽनयः । or विरामो विरतो

वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३॥

 

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।

हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥

 

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।

उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५॥

 

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।

अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६॥

 

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।

नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥

 

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।

सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८॥

 

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।

मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९॥

 

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।

वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५०॥

 

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।

अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१॥

 

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।

आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२॥

 

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।

शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३॥

 

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।

विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ५४॥

 

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।

अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५॥

 

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।

आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६॥

 

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।

त्रिपदस्त्रिदशाध्यक्षो महाश‍ृङ्गः कृतान्तकृत् ॥ ५७॥

 

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।

गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥

 

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।

वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥

 

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।

आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६०॥

 

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।

दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१॥  var  दिविस्पृक्

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।

संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२॥

 

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।

गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३॥

 

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।

श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४॥

 

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।

श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५॥

 

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।

विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६॥

 

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।

भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७॥

 

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।

अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८॥

 

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।

त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९॥

 

कामदेवः कामपालः कामी कान्तः कृतागमः ।

अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७०॥

 

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।

ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१॥

 

महाक्रमो महाकर्मा महातेजा महोरगः ।

महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२॥

 

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३॥

 

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।

वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४॥

 

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।

शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५॥

 

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।

दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६॥

 

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।

अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७॥

 

एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् ।

लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८॥

 

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।

वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९॥

 

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।

सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८०॥

 

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।

प्रग्रहो निग्रहो व्यग्रो नैकश‍ृङ्गो गदाग्रजः ॥ ८१॥

 

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।

चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२॥

 

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।

दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३॥

 

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।

इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४॥

 

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।

अर्को वाजसनः श‍ृङ्गी जयन्तः सर्वविज्जयी ॥ ८५॥

 

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।

महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६॥

 

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।

अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७॥

 

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।

न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८॥

 

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।

अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९॥

 

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।

अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९०॥

 

भारभृत् कथितो योगी योगीशः सर्वकामदः ।

आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१॥

 

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।

अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२॥

 

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।

अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३॥

 

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।

रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४॥

 

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।

अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५॥

 

सनात्सनातनतमः कपिलः कपिरव्ययः ।

स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६॥

 

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।

शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७॥

 

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।

विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८॥

 

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।

वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९॥

 

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।

चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १००॥

 

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।

जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१॥

 

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।

ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥

 

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।

तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३॥

 

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।

यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥

 

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।

यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥

 

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।

देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६॥

 

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।

रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७॥

 

सर्वप्रहरणायुध ॐ नम इति ।

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।

श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८॥

 

श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।

           उत्तरन्यासः ।

     भीष्म उवाच ---

इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।

नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १॥

 

य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।

नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २॥

 

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।

वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३॥

 

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।

कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४॥

 

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।

सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५॥

 

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।

अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६॥

 

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।

भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७॥

 

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।

भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥

 

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।

स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९॥

 

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।

सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १०॥

 

न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।

जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११॥

 

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।

युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२॥

 

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।

भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३॥

 

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।

वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४॥

 

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।

जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५॥

 

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।

वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६॥

 

सर्वागमानामाचारः प्रथमं परिकल्प्यते । var??  कल्पते

आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७॥

 

ऋषयः पितरो देवा महाभूतानि धातवः ।

जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८॥

 

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च ।

वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १९॥

 

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।

त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २०॥

 

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।

पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१॥

 

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।

भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२॥

 

न ते यान्ति पराभवम् ॐ नम इति ।

     अर्जुन उवाच ---

पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।

भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३॥

 

श्रीभगवानुवाच ---

यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।

सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४॥

 

स्तुत एव न संशय ॐ नम इति ।

     व्यास उवाच ---

वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।

सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५॥

 

श्री वासुदेव नमोऽस्तुत ॐ नम इति ।

पार्वत्युवाच ---

केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।

पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६॥

 

     ईश्वर उवाच ---

श्रीराम राम रामेति रमे रामे मनोरमे ।

सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ २७॥

 

श्रीरामनाम वरानन ॐ नम इति ।

     ब्रह्मोवाच ---

नमोऽस्त्वनन्ताय सहस्रमूर्तये

सहस्रपादाक्षिशिरोरुबाहवे ।

सहस्रनाम्ने पुरुषाय शाश्वते

सहस्रकोटियुगधारिणे नमः ॥ २८॥

 

सहस्रकोटियुगधारिणे ॐ नम इति ।

 

ॐ तत्सदिति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यामानुशासनिके

पर्वणि भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् ॥

 

     सञ्जय उवाच ---

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९॥

 

श्रीभगवानुवाच ---

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३०॥

 

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१॥

 

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।

सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ३२॥ var  भवन्तु

 

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । var  प्रकृतिस्वभावात् ।

करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३॥

 

  इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ।

           ॐ तत् सत् ।

 

महाभारते अनुशासनपर्वणि
 
 


 *******
*********************

विष्णुसहस्रनामस्तोत्रम् गरुडपुराणान्तर्गतम्

रुद्र उवाच ।

संसारसागराग्धोरान्मुच्यते किं जपन्प्रभो ।

नरस्तन्मे परं जप्यं कथय त्वं जनार्दन ॥ १॥

 

हरिरुवाच ।

परेश्वरं परं ब्रह्म परमात्मानमव्ययम् । var   ईश्वरम् परमं

विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ २॥

 

यत्पवित्रं परं जप्यं कथयामि वृषध्वज ! ।

श‍ृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ ३॥

 

ॐ वासुदेवो महाविष्णुर्वामनो वासवो वसुः ।

बालचन्द्रनिभो बालो बलभद्रो बलाधिपः ॥ ४॥

 

बलिबन्धनकृद्वेधा (११) वरेण्यो वेदवित्कविः ।

वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः ॥ ५॥

 

वेदाङ्गवेत्ता वेदेशो (२०) बलाधारो बलार्दनः । var   बलधारो

अविकारो वरेशश्च वरुणो वरुणाधिपः ॥ ६॥

 

वीरहा च बृहद्वीरो वन्दितः परमेश्वरः (३०) ।

आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः ॥ ७॥

 

पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः ।

परमः (४०) परभूतश्च पुरुषोत्तम ईश्वरः ॥ ८॥

 

पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः ।

पद्माक्षः पद्मगर्भश्च पर्जन्यः (५०) पद्मसंस्थितः ॥ ९॥

 

अपारः परमार्थश्च पराणां च परः प्रभुः ।

पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः ॥ १०॥ var   पण्डितेभ्यश्च

शुद्धः (६०) प्रकाशरूपश्च पवित्रः परिरक्षकः ।

पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथा ॥ ११॥

 

प्रधानं पृथिवीपद्मं पद्मनाभः (७०) प्रियप्रदः ।

सर्वेशः सर्वगः सर्वः सर्ववित्सर्वदः सुरः ॥ १२॥ var   परः

सर्वस्य जगतो धाम सर्वदर्शी च सर्वभृत् (८०) ।

सर्वानुग्रहकृद्देवः सर्वभूतहृदिस्थितः ॥ १३॥

 

सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः । var   सर्वपः सर्वपूज्यश्च

सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः (९०) ॥ १४॥

 

सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम् ।

सर्वध्येयः सर्वमित्रः सर्वदेवस्वरूपधृक् ॥ १५॥

 

सर्वाध्यक्षः सुराध्यक्षः सुरासुरनमस्कृतः । var   सर्वाध्यायः

दुष्टानां चासुराणां च सर्वदा घातकोऽन्तकः (१०१) ॥ १६॥

 

सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः ।

सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो हृदीश्वरः ॥ १७॥ var   सिद्धिसिद्धो

शरणं जगतश्चैव (११०) श्रेयः क्षेमस्तथैव च ।

शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः ॥ १८॥

 

सत्यस्थः सत्यसङ्कल्पः सत्यवित्सत्यदस्तथा (१२१) । var   सत्पदस्तथा

धर्मो धर्मीच कर्मीच सर्वकर्मविवर्जितः ॥ १९॥

 

कर्मकर्ता च कर्मैव क्रिया कार्यं तथैव च ।

श्रीपतिर्नृपतिः (१३१) श्रीमान्सर्वस्य पतिरूर्जितः ॥ २०॥

 

स देवानां पतिश्चैव वृष्णीनां पतिरीडितः । var   पतिरीरितः

पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा ॥ २१॥

 

पशूनां च पतिः प्रायो वसूनां पतिरेव च (१४०) ।

पतिराखण्डलस्यैव वरुणस्य पतिस्तथा ॥ २२॥

 

वनस्पतीनां च पतिरनिलस्य पतिस्तथा ।

अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ २३॥

 

कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा ।

ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा (१५०) ॥ २४॥

 

नागानां पतिरर्कस्य दक्षस्य पतिरेव च ।

सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा ॥ २५॥

 

गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः ।

पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा ॥ २६॥

 

सुराणां च पतिः श्रेष्ठः (१६०) कपिलस्य पतिस्तथा ।

लतानां च पतिश्चैव वीरुधां च पतिस्तथा ॥ २७॥

 

मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः ।

पतिश्चन्द्रमसः श्रेष्ठः शुक्रस्य पतिरेव च ॥ २८॥

 

ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा ।

किन्नराणां पतिश्चैव (१७०) द्विजानां पतिरुत्तमः ॥ २९॥

 

सरितां च पतिश्चैव समुद्राणां पतिस्तथा ।

सरसां च पतिश्चैव भूतानां च पतिस्तथा ॥ ३०॥

 

वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा ।

पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च ॥ ३१॥

 

महात्मा (१८०) मङ्गलो मेयो मन्दरो मन्दरेश्वरः ।

मेरुर्माता प्रमाणं च माधवो मलवर्जितः ॥ ३२॥ var   मनुवर्जितः

मालाधरो (१९०) महादेवो महादेवेन पूजितः ।

महाशान्तो महाभागो मधुसूदन एव च ॥ ३३॥

 

महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः (२००) । var   प्रवन्दितः

मायात्मा मायया बद्धो मायया तु विवर्जितः ॥ ३४॥

 

मुनिस्तुतो मुनिर्मैत्रो (२१०) महानासो महाहनुः । var   महारासो

महाबाहुर्महादान्तो मरणेन विवर्जितः ॥ ३५॥ var   महादन्तो

महावक्त्रो महात्मा च महाकायो महोदरः । var   महाकारो

महापादो महाग्रीवो महामानी महामनाः ॥ ३६॥

 

महागतिर्महाकीर्तिर्महारूपो (२२२) महासुरः ।

मधुश्च माधवश्चैव महादेवो महेश्वरः ॥ ३७॥

 

मखेज्यो मखरूपी च माननीयो (२३०) मखेश्वरः । var   मखेष्टो महेश्वरः

महावातो महाभागो महेशोऽतीतमानुषः ॥ ३८॥

 

मानवश्च मनुश्चैव मानवानां प्रियङ्करः ।

मृगश्च मृगपूज्यश्च (२४०) मृगाणां च पतिस्तथा ॥ ३९॥

 

बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः ।

पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा ॥ ४०॥

 

लक्ष्मणो लक्षणश्चैव लम्बोष्ठो ललितस्तथा (२५०) ।

नानालङ्कारसंयुक्तो नानाचन्दनचर्चितः ॥ ४१॥

 

नानारसोज्ज्वलद्वक्त्रो नानापुष्पोपशोभितः ।

रामो रमापतिश्चैव सभार्यः परमेश्वरः ॥ ४२॥

 

रत्नदो रत्नहर्ता च (२६०) रूपी रूपविवर्जितः ।

महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥ ४३॥

 

नीलमेघनिभः शुद्धः सालमेघनिभस्तथा । var   कालमेघ

धूमवर्णः पीतवर्णो नानारूपो (२७०) ह्यवर्णकः ॥ ४४॥

 

विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च ।

सर्ववर्णो महायोगी यज्ञो यज्ञकृदेव च ॥ ४५॥ var   याज्यो

सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च (२८०) । var   सुवर्णो वर्ण

सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥ ४६॥

 

सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च ।

सुवर्णस्य प्रियश्चैव (२९०) सुवर्णाढ्यस्तथैव च ॥ ४७॥

 

सुपर्णी च महापर्णो सुपर्णस्य च कारणम् (२९०) ।

वैनतेयस्तथादित्य आदिरादिकरः शिवः ॥ ४८॥

 

कारणं महतश्चैव प्रधानस्य च कारणम् । var   पुराणस्य

बुद्धीनां कारणं चैव कारणं मनसस्तथा ॥ ४९॥

 

कारणं चेतसश्चैव (३००) अहङ्कारस्य कारणम् ।

भूतानां कारणं तद्वत्कारणं च विभावसोः ॥ ५०॥

 

आकाशकारणं तद्वत्पृथिव्याः कारणं परम् ।

अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥ ५१॥

 

देहस्य कारणं चैव चक्षुषश्चैव कारणम् ।

श्रोत्रस्य कारणं (३१०) तद्वत्कारणं च त्वचस्तथा ॥ ५२॥

 

जिह्वायाः कारणं चैव प्राणस्यैव च कारणम् ।

हस्तयोः कारणं तद्वत्पादयोः कारणं तथा ॥ ५३॥

 

वाचश्चकारणं तद्वत्पायोश्चैव तु कारणम् ।

इन्द्रस्य कारणं चैव कुबेरस्य च कारणम् ॥ ५४॥

 

यमस्य कारणं चैव (३२०) ईशानस्य च कारणम् ।

यक्षाणां कारणं चैव रक्षसां कारणं परम् ॥ ५५॥

 

नृपाणां कारणं श्रेष्ठं धर्मस्यैव तु कारणम् । var   भूषाणां

जन्तूनां कारणं चैव वसूनां कारणं परम् ॥ ५६॥

 

मनूनां कारणं चैव पक्षिणां कारणं परम् ।

मुनीनां कारणं श्रेष्ठ (३३०) योगिनां कारणं परम् ॥ ५७॥

 

सिद्धानां कारणं चैव यक्षाणां कारणं परम् ।

कारणं किन्नराणां च (३४०) गन्धर्वाणां च कारणम् ॥ ५८॥

 

नदानां कारणं चैव नदीनां कारणं परम् ।

कारणं च समुद्राणां वृक्षाणां कारणं तथा ॥ ५९॥

 

कारणं वीरुधां चैव लोकानां कारणं तथा ।

पातालकारणं चैव देवानां कारणं तथा ॥ ६०॥

 

सर्पाणां कारणं चैव (३५०) श्रेयसां कारणं तथा ।

पशूअनां कारणं चैव सर्वेषां कारणं तथा ॥ ६१॥

 

देहात्मा चेन्द्रियात्मा च आत्मा बुद्धेस्तथैव च ।

मनसश्च तथैवात्मा चात्माहङ्कारचेतसः ॥ ६२॥

 

जाग्रतः स्वपतश्चात्मा (३६०) महदात्मा परस्तथा ।

प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा ॥ ६३॥

 

पृथिव्याः परमात्मा च रसस्यात्मा तथैव च । var  वयस्यात्मा

गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा ॥ ६४॥

 

शब्दात्मा चैव (३७०) वागात्मा स्पर्शात्मा पुरुषस्तथा ।

श्रोत्रात्मा च त्वगात्मा च जिह्वायाः परमस्तथा ॥ ६५॥

 

घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा (३८०) ।

उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा ॥ ६६॥

 

इन्द्रात्मा चैव ब्रह्मात्मा रुद्रात्मा च मनोस्तथा । var   शान्तात्मा

दक्षप्रजापतेरात्मा सत्यात्मा परमस्तथा ॥ ६७॥

 

ईशात्मा (३९०) परमात्मा च रौद्रात्मा मोक्षविद्यतिः ।

यत्नवांश्च तथा यत्नश्चर्मी खड्गी मुरान्तकः ॥ ६८॥ var   खड्ग्यसुरा

ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः ।

यतिरूपी च (४००) योगी च योगिध्येयो हरिः शितिः ॥ ६९॥

 

संविन्मेधा च कालश्च ऊष्मा वर्षा मतिस्तथा (४१०) । var   नतिस्तथा

संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा ॥ ७०॥

 

मोहकर्ता च दुष्टानां माण्डव्यो वडवामुखः ।

संवर्तः कालकर्ता च गौतमो भृगुरङ्गिराः (४२०) ॥ ७१॥ var   संवर्तकः कालकर्ता

अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च ।

याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ ७२॥

 

शर्मदश्चैव (४३०) गाङ्गेयो हृषीकेशो बृहच्छ्रवाः ।

केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः ॥ ७३॥

 

नारायणो महाभागः प्राणस्य पतिरेव च (४४०) ।

अपानस्य पतिश्चैव व्यानस्य पतिरेव च ॥ ७४॥

 

उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा ।

शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च ॥ ७५॥

 

रूपाणां च पतिश्चाद्यः खड्गपाणिर्हलायुधः (४५०) ।

चक्रपाणिः कुण्डली च श्रीवत्साङ्कस्तथैव च ॥ ७६॥

 

प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा ।

सुमुखो दुर्मुखश्चैव मुखेन तु विवर्जितः ॥ ७७॥

 

अनन्तोऽनन्तरूपश्च (४६१) सुनखः सुरमन्दरः ।

सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चेषुधीस्तथा ॥ ७८॥

 

हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः (४७०) ।

निहन्ता पूतनायाश्च भास्करान्तविनाशनः ॥ ७९॥

 

केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः ।

कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः ॥ ८०॥

 

अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च ।

अक्रूरः क्रूररूपश्च (४८०) अक्रूरप्रियवन्दितः ॥ ८१॥

 

भगहा भगवान्भानुस्तथा भागवतः स्वयम् ।

उद्धवश्चोद्धवस्येशो ह्युद्धवेन विचिन्तितः ॥ ८२॥

 

चक्रधृक्चञ्चलश्चैव (४९०) चलाचलविवर्जितः ।

अहङ्कारो मतिश्चित्तं गगनं पृथिवी जलम् ॥ ८३॥

 

वायुश्चक्षुस्तथा श्रोत्रं (५००) जिह्वा च घ्राणमेव च ।

वाक्पाणिपादजवनः पायूपस्थस्तथैव च ॥ ८४॥

 

शङ्करश्चैव शर्वश्च क्षान्तिदः क्षान्तिकृन्नरः (५११) ।

भक्तप्रियस्तथा भर्ता भक्तिमान्भक्तिवर्धनः ॥ ८५॥

 

भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः ।

कीर्तिर्दीप्तिः (५२०) क्षमा कान्तिर्भक्तश्चैव (५३०) दयापरा ॥ ८६॥

 

दानं दाता च कर्ता च देवदेवप्रियः शुचिः ।

शुचिमान्सुखदो (५३१) मोक्षः कामश्चार्थः सहस्रपात् ॥ ८७॥

 

सहस्रशीर्षा वैद्यश्च मोक्षद्वारस्तथैव च ।

प्रजाद्वारं सहस्राक्षः सहस्रकर एव च (५४०) ॥ ८८॥ var   सहस्रान्तः

शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा ।

प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः ॥ ८९॥

 

मत्स्यः परशुरामश्च (५५०) प्रह्लादो बलिरेवच ।

शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत् ॥ ९०॥

 

खरदूषणहन्ता च रावणस्य प्रमर्दनः ।

सीतापतिश्च (५६०) वर्धिष्णुर्भरतश्च तथैव च ॥ ९१॥

 

कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः ।

नरान्तकान्तकश्चैव देवान्तकविनाशनः ॥ ९२॥

 

दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च ।

नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः (५७०) ॥ ९३॥

 

यमलार्जुनभेत्ता च तपोहितकरस्तथा ।

वादित्रश्चैव वाद्यं च बुद्धश्चैव वरप्रदः ॥ ९४॥

 

सारः सारप्रियः सौरः कालहन्ता निकृन्तनः (५८०) ।

अगस्त्यो देवलश्चैव नारदो नारदप्रियः ॥ ९५॥

 

प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः (५९०) शरत् ।

उदानश्च समानश्च भेषजं च भिषक्तथा ॥ ९६॥

 

कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः ।

चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः (६००) ॥ ९७॥

 

हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जितः ।

पायूपस्थविहीनश्च मरुतापविवर्जितः ॥ ९८॥ var   महातपोविसर्जितः

प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः ।

चेतसा विगतश्चैव प्राणेन च विवर्जितः ॥ ९९॥

 

अपानेन विहीनश्च व्यानेन च विवर्जितः (६१०) ।

उदानेन विहीनश्च समानेन विवर्जितः ॥ १००॥

 

आकाशेन विहीनश्च वायुना परिवर्जितः ।

अग्निना च विहीनश्च उदकेन विवर्जितः ॥ १०१॥

 

पृथिव्या च विहीनश्च शब्देन च विवर्जितः ।

स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः (६२०) ॥ १०२॥

 

रागेण विगतश्चैव अघेन परिवर्जितः ।

शोकेन रहितश्चैव वचसा परिवर्जितः ॥ १०३॥

 

रजोविवर्जितश्चैव विकारैः षड्भिरेव च ।

कामेन वर्जितश्चैव क्रोधेन परिवर्जितः ॥ १०४॥

 

लोभेन विगतश्चैव दम्भेन च विवर्जितः ।

सूक्ष्मश्चैव (६३०) सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा ॥ १०५॥

 

विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा ।

प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा ॥ १०६॥

 

भूतानां क्षोभकश्चैव बुद्धेश्च क्षोभकस्तथा ।

इन्द्रियाणां क्षोभकश्च (६४०) विषयक्षोभकस्तथा ॥ १०७॥

 

ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा ।

अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च ॥ १०८॥

 

त्वचा न गम्यः कूर्मश्च जिह्वाग्राह्यस्तथैव च ।

घ्राणेन्द्रियागम्य एव वाचाग्राह्यस्तथैव च (६५०) ॥ १०९॥

 

अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च । var   पादागम्य

अग्राह्यो मनसश्चैव बुद्ध्या ग्राह्यो हरिस्तथा ॥ ११०॥

 

अहम्बुद्ध्या तथा ग्राह्यश्चेतसा ग्राह्य एव च ।

शङ्खपाणिरव्ययश्च गदापाणिस्तथैव च (६६०) ॥ १११॥

 


शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः ।

तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च ॥ ११२॥

 

ज्ञेयश्च ज्ञेयहीनश्च (६७०) ज्ञप्तिश्चैतन्यरूपकः ।

भावो भाव्यो भवकरो भावनो भवनाशनः ॥ ११३॥

 

गोविन्दो गोपतिर्गोपः (६८०) सर्वगोपीसुखप्रदः ।

गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा ॥ ११४॥ var   गोपति

उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः ।

आरणेयो (६९०) बृहद्भानुर्बृहद्दीप्तिस्तथैव च ॥ ११५॥

 

दामोदरस्त्रिकालश्च कालज्ञः कालवर्जितः ।

त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं (७००) त्रिविक्रमः ॥ ११६॥

 

विक्रमो दण्डहस्तश्च ह्येकदण्डी त्रिदण्डधृक् । var   दरहस्तश्च

सामभेदस्तथोपायः सामरूपी च सामगः ॥ ११७॥

 

सामवेदोः (७१०) ह्यथर्वश्च सुकृतः सुखरूपकः ।

अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च ॥ ११८॥

 

ऋग्रूपी चैव ऋग्वेदः ऋग्वेदेषु प्रतिष्ठितः ।

यजुर्वेत्ता यजुर्वेदो (७२०) यजुर्वेदविदेकपात् ॥ ११९॥

 

बहुपाच्च सुपाच्चैव तथैव च सहस्रपात् ।

चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली (७३०) ॥ १२०॥

 

सन्न्यासी चैव सन्न्यासश्चतुराश्रम एव च ।

ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ १२१॥

 

ब्राह्मणः क्षत्रियो वैश्यः (७४०) शूद्रो वर्णस्तथैव च ।

शीलदः शीलसम्पन्नो दुःशीलपरिवर्जितः ॥ १२२॥

 

मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः ।

पूज्यो (७५०) वाक्करणं चैव वाच्यश्चैव तु वाचकः ॥ १२३॥

 

वेत्ता व्याकरणश्चैव वाक्यं चैव च वाक्यवित् ।

वाक्यगम्यस्तीर्थवासी (७६०) तीर्थस्तीर्थी च तीर्थवित् ॥ १२४॥

 

तीर्थादिभूतः साङ्ख्यश्च निरुक्तं त्वधिदैवतम् ।

प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः (७७०) ॥ १२५॥

 

प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः ।

शालग्रामनिवासी च (७८०) शालग्रामस्तथैव च ॥ १२६॥

 

जलशायी योगशायी शेषशायी कुशेशयः ।

महीभर्ता च (७९०) कार्यं च कारणं पृथिवीधरः ॥ १२७॥

 

प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट् ।

सम्राट्पूषा (८००) तथा स्वर्गो रथस्थः सारथिर्बलम् ॥ १२८॥

 

धनी धनप्रदो धन्यो यादवानां हिते रतः ।

अर्जुनस्य प्रियश्चैव ह्यर्जुनो (८१०) भीम एव च ॥ १२९॥

 

पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः ।

सारस्वतो महाभीष्मः पारिजातहरस्तथा ॥ १३०॥

 

अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च (८२०) ।

इन्द्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा ॥ १३१॥

 

कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः ।

शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः ॥ १३२॥

 

मुद्रो (८३०) मुद्राकरश्चैव सर्वमुद्राविवर्जितः ।

देही देहस्थितश्चैव देहस्य च नियामकः ॥ १३३॥

 

श्रोता श्रोत्रनियन्ता च श्रोतव्यः श्रवणस्तथा ।

त्वक्स्थितश्च (८४०) स्पर्शयिता स्पृश्यं च स्पर्शनं तथा ॥ १३४॥

 

रूपद्रष्टा च चक्षुःस्थो नियन्ता चक्षुषस्तथा ।

दृश्यं चैव तु जिह्वास्थो रसज्ञश्च नियामकः (८५०) ॥ १३५॥

 

घ्राणस्थो घ्राणकृद्घ्राता घ्राणेन्द्रियनियामकः ।

वाक्स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः ॥ १३६॥

 

प्राणिस्थः (८६०) शिल्पकृच्छिल्पो हस्तयोश्च नियामकः ।

पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा ॥ १३७॥

 

नियन्ता पादयोश्चैव पाद्यभाक्च विसर्गकृत् (८७०) ।

विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखस्तथा ॥ १३८॥

 

उपस्थस्य नियन्ता च तदानन्दकरश्च ह ।

शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च ॥ १३९॥

 

अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तनः (८८०) ।

कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा ॥ १४०॥

 

अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः ।

धूमकृद्धूमरूपश्च (८९०) देवकीपुत्र उत्तमः ॥ १४१॥

 

देवक्या नन्दनो नन्दो रोहिण्याः प्रिय एव च ।

वसुदेवप्रियश्चैव वसुदेवसुतस्तथा ॥ १४२॥

 

दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च (९००) ।

अट्टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः ॥ १४३॥

 

अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः ।

रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तथा ॥ १४४॥

 

गोपीनां वल्लभश्चैव (९१०) पुण्यश्लोकश्च विश्रुतः ।

वृषाकपिर्यमो गुह्यो मङ्गलश्च बुधस्तथा ॥ १४५॥

 

राहुः केतुर्ग्रहो ग्राहो (९२०) गजेन्द्रमुखमेलकः ।

ग्राहस्य विनिहन्ता च ग्रामीणी रक्षकस्तथा ॥ १४६॥

 

किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च ।

विश्वरूपो विशालाक्षो (९३०) दैत्यसूदन एव च ॥ १४७॥

 

अनन्तरूपो भूतस्थो देवदानवसंस्थितः ।

सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च ॥ १४८॥

 

जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा (९४०) ।

स्वप्नस्थः स्वप्नवित्स्वप्नस्थानं स्वप्नस्तथैव च ॥ १४९॥

 

 var   स्वप्नस्थः स्वप्नवित्स्वप्नं स्थानस्थः सुस्थ एव च

जाग्रत्स्वप्नसुषुप्तेश्च विहीनो वै चतुर्थकः ।

विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा (९५०) ॥ १५०॥ var   चैत्ररूपश्च

भुवनाधिपतिश्चैव भुवनानां नियामकः ।

पातालवासी पातालं सर्वज्वरविनाशनः ॥ १५१॥

 

परमानन्दरूपी च धर्माणां च प्रवर्तकः ।

सुलभो दुर्लभश्चैव प्राणायामपरस्तथा (९६०) ॥ १५२॥

 

प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा ।

प्रभा कान्तिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः ॥ १५३॥

 

अग्राह्यश्चैव गौरश्च सर्वः (९७०) शुचिरभिष्टुतः ।

वषट्कारो वषड्वौषट्स्वधा स्वाहा रतिस्तथा ॥ १५४॥

 

पक्ता नन्दयिता (९८०) भोक्ता बोद्धा भावयिता तथा ।

ज्ञानात्मा चैव देहात्मा भूमा सर्वेश्वरेश्वरः ॥ १५५॥ var   ऊहात्मा

नदी नन्दी च नन्दीशो (९९०) भारतस्तरुनाशनः ।

चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम् ॥ १५६॥ var   नृपश्च

ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा । var   स्वावकाशं स्थित

पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च (१०००) ॥ १५७॥

 

भरतो जनको जन्यः सर्वाकारविवर्जितः ।

निराकारो निर्निमित्तो निरातङ्को निराश्रयः (१००८) ॥ १५८॥

 

इति नामसहस्रं ते वृषभध्वज कीर्तितम् ।

देवस्य विष्णोरीशस्य सर्वपापविनाशनम् ॥ १५९॥

 

पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् ।

वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ १६०॥

 

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे

श्रीविष्णुसहस्रनामस्तोत्रनिरूपणं नाम पञ्चदशोऽध्यायः ॥


 

हे गोविन्द हे गोपाल अब तो जीवन हारे ।

  हे गोविन्द हे गोपाल अब तो जीवन हारे । अब तो जीवन हारे प्रभु शरण है तिहारे... हे गोविंद ॥   नीर पीवण हेतु गयो सिन्धू के किनारे सिन्...